________________
ऽध्यायः] लक्ष-होमविधिवर्णनम् । एतद्विधानं विदधाति भक्त्या खातेषु सर्वेषु तडागकेषु।। सोऽमुत्र कामैः परिपूर्ण देहो भुक्ते धरित्र्यामिह सर्वभोगान् ॥२३६ वदन्ति केचिद्वरुगस्य लोके प्रयाति भोगावरुगस्य भुङ्क्ते । भुक्त्वा चिरं तत्र पुनर्धरित्र्यां नरेद्रतामेति पराशरोक्तिः ॥२४०
इति तडागादिप्रतिष्ठाविधिवर्णनम् ।
॥ अथ लक्ष-होमविधिवर्णनम् ॥ अथातः सम्प्रवक्ष्यामि द्विजेन्द्राः श्रूयतामितः । लक्षहोमविधिं पुण्यं कोटिहोमविधि ततः ।।२४१ स्वयंभूर्यमुवाच प्रागस्मत्तातं पितामहः । तमिमं सत्प्रवक्ष्यामि श्रूयतां पापनाशनम्।।२४२ ये चेह ब्राह्मणाः कार्या भूमिर्वा यत्र मण्डपम् । समिधो याश्च ये मन्त्रा अन्यच्च तत्र यद्भवेत् ॥२४३ लक्षहोममिमं विप्राः कायम.नं निबोधत । युग्माश्च भूविजः कार्या ब्राह्मणा ये विपश्चितः ॥२४४ नियमत्रतसंपन्ना सहिताः पार्थिवेन तु । नित्यं जपरता ये च नियोज्यास्तादृशा द्विजाः ॥२४५ कन्द-मूल-फलाहारा दधि-क्षीराशिनोऽपि च । प्रागुदीच्यां समे देशे स्पण्डिलं यत्र कारयेत् ।।२४६ तत्र वेदी प्रति पञ्चहस्तप्रमाणिकाम् । दक्षिणोत्तर आयामे त्रिंशत्तु पूर्वपश्चिमे ॥२४७