SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १२६ बृहत्पराशरस्मृतिः। [एकादशो. मत्स्या नक्रादयः कार्या विविधावर्तवृत्तयः। गो-वत्तौ वस्त्रबद्धौ च आग्नेय्यां दिशि संस्थितौ ॥२२८ वायव्याभिमुखौ तत्र कारयेद्वारिमध्यतः। वस्त्रयुग्मानि विप्रेन्यो मुद्रिका-छत्रिकादयः ॥२२६ भक्त्या चैताः प्रदातव्याः प्रसाद्य यनतो द्विजाः । विप्रान् सन्तोष्य देयानि दानानि विविधान्यपि ॥२३० हेमपुरुषसंयुक्तां शय्यां दद्यञ्च शक्तितः। आसनानि प्रशस्तानि भाजनानि निवेदयेत् ।।२३१ एतत्प्रदक्षिणोकृत्य स्वास्मना च विपश्चितः। . प्रसादयेन् द्विजान् सर्वान्वांछन्पूर्तफलं नरः ।।२३२ कृताञ्जलिपुटो भूत्वा विप्राणामप्रत स्थितः । ब्रूयादेवं, भवन्तोज सर्व विप्रवपुधराः ।।२३३ ते यूयं तारयध्वं मां संसारार्णवतो द्विजाः। आगता सम पुण्येन पूर्तकर्मप्रसाधकाः ।।२३४ कूर्मश्च मकरश्चैव सौवर्णस्तत्र कारयेत् । मोनाश्च रासभाश्चैव ताम्रा ददुरकाः स्मृताः ।।२३५ जलकुञ्जर-गोधाश्च सैसास्तत्र प्रकल्पयेत् । अन्येऽपि जलजास्तत्र शक्तितस्तान्प्रकल्पयेत् ॥२३६ इमं पुण्यं प्रशस्तं च तडागादिविधि नरः । वापी-कूप-तडागादौ कारयेत् ब्राह्मणैर्बुधैः ।।२३७ खातयित्वा तडागादि स्वभावाच्छाठ्यवर्जितः । मानवः क्रोडति स्वर्गे यावदिन्द्राश्चतुर्दश ।।२३८ मा .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy