SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] तडागादिप्रतिष्ठाविधिवर्णनम् । शिरः प्रमाणो विप्रस्य आकण्ठं क्षत्रियस्य च । उर:प्रमाणो वैश्यस्य शूद्रस्य नाभिमात्रकः ।।२१७ वेदिका पादमूले तु यूपस्तत्र निखन्यते । यूपस्य दक्षिणे भागे तोरण तत्र कारयेत् ।।२१८ ब्रह्मस्थानं च तन्मध्ये अष्टौ भागाः प्रकीर्तितः । तेषामुत्तरतः सोमं कुवेरं कुविदङ्गतम् ।।२१६ । धनदं धन्वनागेति ईशावास्येति शङ्करम् । आकृष्णेनेत्यादिमन्त्रैश्च स्वैः स्वैः कल्प्यास्तथा ग्रहाः ।।२२० त्रातारमिन्द्रमितीन्द्रं मग्निं दूतं च पावकम् । अग्निः पृथुरित्यादि धर्मराजं द्विजोत्तमः ।।२२१ तद्विष्योरिति वै विष्णुं नमः सूतेति नै तिम् । सप्तर्षयस्तु इत्यादि मन्त्रैः सप्तऋषींस्तथा ॥२२२ वरुणस्योत्तंभनमसि वरुणं च प्रपूजयेत् । एवं द्वाविंशतिस्थानानि मन्त्रोक्तानि पृथक् पृथक् ॥२२३ इमं मे, त्वन्नः, सत्वन्नस्तत्वायामि ह्युदुत्तमम् । समुद्रोऽसि समुद्रेति त्रीन् समुद्रान् निमीनपि ॥२२४ दशभिर्वारुणैर्मन्त्रैराहुतीनां शतद्वयम् । शतमधं शतं वापि विंशत्यष्टोत्तरं शतम् ।।२२५ . गोसहस्रशतं वापि शताधं वा प्रदीयते । अलाभे चैव गां दद्यादेकामपि पयस्विनीम् ।।२२६ अरोगां वत्ससंयुक्तां सुरूपां भूषणान्विताम् । सौवर्णा राजतास्ताम्राः कास्याः सोसाश्च शक्तितः ॥२२७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy