________________
१२४
बृहत्पराशरस्मृतिः। [एकादशोतस्माच्च श्रुतवान् शक्तिः शुश्रावातः पराशरः । तत्प्रसादेन तत्प्रोक्तो यो विधिः सम्प्रचक्षते ॥२०५ तडागादिनिपानानां यावन्नोत्सर्जनं कृतम् । तावत्तत्परकीयं तु स्नानादीनामनहकम् ॥२०७ अप्रतिष्ठित हेवानां न कार्य पूजनं नरैः। अप्रतिष्ठितखातानामपेयं तोयमुच्यते ॥२०८ तदुत्सर्गः प्रकर्तव्यो निजवित्तानुसारतः । वित्तशाठ्य प्रहेयं स्यादित्युवाच पराशरः ॥२०६ तद्विधिज्ञः शुचिः शान्तो ब्राह्मणो धर्मवृद्धये । । तदर्थ वरणीयोऽसौ चतुभिर्ब्राह्मणैः सह ।।२१० आचार्यस्तत्र कर्तव्यः पूर्तधर्मविवृद्धये । विपरीतमतिर्यस्यात्तत्कृतं कर्मनिष्फलम् ॥२११ तडागपालिपष्ठे तु मण्डपं तत्र कारयेत् । पूर्वोत्तरप्लवे देशे शुचिः स्वस्थः समाहितः ।।२१२ चतुरस्रं चतुरं दशहस्तप्रमाणकम् । स्वामिहस्तप्रमाणेन तोरणानि च कारयेत् ॥२१३ पताका विविधाः कार्या नानावर्णाः समन्ततः । शुभपल्लवसंयुक्ता द्वारेषु कलशाः स्मृताः ।।२१४ यथावणं यथाकाष्ठं यथाकार्य प्रमाणतः । तथा यूपान्प्रवक्ष्यामि वर्णानां हितकाम्यया ॥२१५ पालाशो ब्राह्मणः प्रोक्तो न्यग्रोधो भूभुजः स्मृतः । वैल्वो वैश्यस्य यूपःश्याच्द्रस्यौदुम्वरः स्मृतः ।।२१६.