________________
ऽध्यायः] रुद्रशान्तिविधिवर्णनम्। १२३
प्रजानामायुषः कीर्तर्भूयस्त्वं रुद्रजापिनः। .. इमं मन्त्रं पवित्रं च रहस्यं पापनाशनम् ।।१६७ रुद्रविधि विधिश्रेष्ठ कुर्याद्विप्रः शिवेरितः ।
शैवागमविशेषज्ञो वेद-वेदाङ्गपारगः ।।१६८ कुर्याद्यदेवं विधिवद्विधानं गाम्भोरजस्रं प्रथितं द्विजेन्द्राः । प्राप्नोति लोकं स शिवस्य साक्षादत्रापि सस्याच्छिववत्सुपुज्यः॥१६६ मन्त्राणि सर्वाणि च सद्विजस्य निर्देशक णि भवन्ति तस्य । यःसाधयेत्प्रोक्तविधानविज्ञो मन्त्राभिपूज्यःसतु श भुवस्यात्॥२०० मन्त्रां त्रिनेत्रं जुहुयात् हुताशे यो बिल्वपौर्वृत-दुग्धमिरैः । निहत्य मृत्यु श्रियमेति धात्र्यां प्राप्नोति पश्चाच्छिवलोकमेव ।।२०१
पञ्चभागश्च षड्जातः पञ्चेन्द्रं पञ्चवारुणम् । षड्जातिं च जपित्वा तु सर्वपापैः प्रमुच्यते ॥२०२
इति रुद्रशांतिविधिवर्णनम्
॥ अथ तडागादि प्रतिष्ठाविधिवर्णनम् ।। अथातः सम्प्रवक्षामि तडागादिविधिं शुभम् । कृतेन येन तेषां तु प्रतिष्ठा सम्प्रजायते ।।२०३ अस्मन्नामस्य तातेन पृच्छते रघुपुङ्गवे । तडागाद्युत्सवे प्रोक्तो विधिः सोऽयं प्रकीर्तितः ।।२०४ दीपिकासु तडागेषु सन्निहत्यासु यो विधिः। सं वसिष्ठोऽवदत्सम्यक् दशरथस्य पृच्छतः ।।२०५