SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ १२१ ऽध्यायः ] . रुद्रशान्तिविधिवर्णनम् । जप्त्वाखादिरसमिधो हुत्वा विप्रः सहस्रकम् । तीक्ष्णैतैलप्लुतं सम्यमन्त्रान्ते चामुकं हन ।।१७६ फटफटकारेण जुहुयात्क्षयो रोगश्चिराद्भवेत् । जलमध्ये शतावत:त्सद्यो वृष्टिनिंगद्यते ॥१७७ नाभिमात्रे जले विप्रः प्रविश्य जुहुयाजलम् । कुर्यादेकार्णवां धात्री मन्त्रमाहात्म्यतो भृशम् ।।१७८ नम श्वभ्य इत्यमुना मन्त्रेण तु सहस्रकम् । लवणं मध्वाहुतीनां तु राजा शीघ्रं वशी भवेत् ॥१७६ द्विगुणां पलाशसमिधं महावाणी प्रजायते । त्रिगुणां नवपद्मानां पाताले सिध्यति ध्रुवम् ॥१८० चतुर्गणेन मन्त्रेण वरदा श्रीः प्रवर्तते । समुद्रगानदीकूले पुलिने वा पवित्रके ॥१८१ खड्गोपरि श्रीफलानां हुत्वा त्रिंशत् शतानि च । खड्विद्याधरो विप्रः शिवाज्ञातः प्रजायते ॥१८२: अणिमाद्यष्टगुणं हुत्वा जपेन्मन्त्रसहस्रकम् । अणिमादिकसिद्धीनां पतिरेव भवेद्विजः ॥१८३ छन्दोदैवतमाषयमथातः शतरुद्रिये । ज्ञानेन कर्मसम्यक्त्वं द्विजानां येन जायते ॥१८४ आद्यानुवाके रुद्राणामाद्यायां च भूचि द्विजः । छन्दो गायत्रमन्यासु अनुष्टुप् तिसृषु स्मृतम् ॥१८५ पङ्क्तिस्तिसृषु विज्ञेया अनुष्टुभ् सप्तसु स्मृतम् । द्वयोश्च जगती विप्रा उक्तमाद्यानुवाकयोः ॥१८६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy