SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [एकादशोधृतवत्सां काकवन्ध्यां स्नापयेच्च तथाऽऽतुराम् । जपेदेतत्सकृद्विप्रः सर्वदोषर्विमुच्यते ॥१६६ अनड़ाहं च वस्त्रं च दद्यानुं च दक्षिणाम् । भोजयेद्विदुषो विप्रान्समाप्तौ कर्मणो द्विजः ।।१६७ भक्त्यैकादशवस्त्राद्यैर्यथाशक्त्या समचयेत् । अथ वा चरुभिक्षाशी शिरोरुद्रसहस्रकम् ॥१६८ जपेद्गोष्ठे तथारण्ये सिद्ध क्षेत्रे शिवालये। अग्न्यागारे समुद्रे च नदी-निर्भर-पर्वते ॥१६६ जपेदन्यत्र वा विद्वान् शुचौ देशे मनोरमे । धीरो दृढव्रतो मौनी त्यक्तक्रोधो यतेन्द्रियः ॥१७० धौतवासास्त्वधःशायी रुद्रलोके महीयते । नमो गणेभ्य इत्यस्य मन्त्रस्य ब्राह्मणोऽयुतम् ।।१७१ जप्त्वा च श्रीफलहुं त्वा सर्वकार्येषु सिद्धिभाक् । नमोऽस्तु नीलग्रोवायेत्येतन्मंत्रेण सप्तधा ।। आवोदकमाम त्र्य विषार्तश्रवणे क्षिपेत् । विषण मुच्यते सद्यः कालदष्टोऽपि जीवति ॥१७२ विषस्याभिभवो न स्यानरस्य तस्य कर्हिचित् । ग्रहग्रस्तं ज्वरग्रस्तं रक्षः शाकिनिदूषितम् ।।१७३ ब्रह्मराक्षसग्रस्तं च अन्यदोषोपगृहितम् । प्रमुञ्च धन्वनं इति भस्मना सर्षपैस्तथा ।।१७४ ताडयेन्मुश्च मुञ्चेति शीघ्रमेव विमुञ्चति । नमः शम्भब इत्यस्य मन्त्रस्य चायुतं द्विजः ॥१७५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy