________________
६१६
ऽध्यायः ] रुद्रशान्तिविधिवर्णनम्।
तस्मै दत्तं च तद्भुक्तं सदाऽनश्याय कल्प्यते। वेदाङ्गवेदिनामतः शिवभक्तः सदाधिकः ॥१५८
इति रुद्रपूजाविधिवर्णनम् । ॥ अथ रुद्रशान्तिविधिवर्णनम् ॥ अथातः सिद्धिकामः सन्कन्दमूलफलाशनः । गोमूत्रयावकक्षोरदविशाकाऽऽज्यभोजनः ॥१५६ हविष्यभोजनो वाऽसौ विप्रो योत्पन्नभोजनः । जपहोमादि कुर्वाणो यथोक्त.फलभाग्भवेत् ।।१६० शिरसा सह रुद्राणां जातैर्दशशतैर्धवम् । सर्वे मन्त्रा भवन्त्यस्य ब्राह्मणस्योक्तकारिणः ॥१६१ सिद्वा मत्रा द्विजेन्द्रस्य चिन्तितार्थफलप्रदाः । रुद्रस्यैवास्य सर्वे ते भवन्तोश्वरनोदिताः ॥१६२ एकादश शुभान्कुम्भान् आहृत्य विधिसम्मितान् । सहिरण्यान् सवस्त्रांश्च फलपुष्पोपशोभितान् ॥१६३ गन्धोदकाऽनतैर्युक्तान् पूजयेद्रभक्तिकृत् । अथै फादरारुरैश्च एकैकमभिमंत्रयेत् । एवं संपूज्य तान्कुम्भान् नमस्कृत्याभिमन्त्र्य च । पूजयेद्भक्तितो रुद्रानेकादश महागुणान् ।।१६४ एकादशाहमात्मानमन्यं वा हित काम्यया । विनायकोपसृष्टं च स्नायाकाकपदाहतम् ॥१६५