SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ११८ वृहत्पराशरस्मृतिः। [एकादशोशिखा तस्य तु रुद्रस्योत्तरनारायणं द्विजः । शिरः पुरुषसूक्तं च शिवसङ्कल्पकं च हृत् ॥१४७ कवचं चाप्रतिरथं नेत्रं विभ्राट बृहत्पिबन् । शतरुद्रीयमन्त्रेण देवस्यास्त्र प्रकल्पयेत् ॥१४८ पञ्चाङ्गानि स्मरेदष्टप्रणवं च जपेद्विजः । उद्धृत्य प्रगवेनेशं विकिरिद्रे विसर्जयेत् ॥१४६ रुद्ररूपो द्विजो यश्च यत्कुर्यात्तद्धि सिध्यति । अक्षतान्वा तिलान्यापि यवान्वा समिधोऽपिवा ॥१५० शम्भवायेति जुहुयात्सर्वा स्तानाज्यसिक्तकान् । पञ्चपञ्चाथ षट् षट् वा अष्टावष्टौ तथापि वा ॥१५१ दशदशैकादश वा जुहुयात्साधको द्विजः । द्विजः स्वदारसंतुष्टः शुचिः स्नातो यतेन्द्रियः ॥१५२ अप-तर्पण-होमादौ रतो यो वत्सरं जपेत् । दशानामश्वमेधानां फलं प्राप्नोति वै द्विजः ॥१५३ सौवर्णपृथिवीदानपुण्यभाक् जायते नरः । महापापोपपापैश्च मुक्तो रुद्रत्वमृच्छति ॥१५४ एकादरागुणान् रुद्रानाबृत्य याति रुद्रताम् । रुद्रजापी शुचिः पुण्यः पातयः श्राद्धभुग्वरः ॥१५५ पूर्वजानां शतं सैकं ताडयेद्रुद्रजाप्यकृन् । एकतो योगिनः सर्वे ज्ञातिभिः सह तद्वतैः ॥१५६ एकतो रुद्रजापी तु मान्यः सर्वैस्तु दैवतैः । पात्रमत्र पवित्रं तु नाधिकं रुद्रजापिनः ॥१५७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy