SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] रुद्रपूजाविधिवर्णनम्। ६१७ मेखलाकिंकिणीमालायुक्तारावविराजितम् । घर्घराव्यक्तनिर्गच्छद्गम्भीरारावनूपुरम् ।।१३६ सहेमपट्टनीलाभव्याघ्रचर्मोत्तरीयकम् । विद्युल्लताप्रभागङ्गा धृतमूद्धं सुरार्चितम् ॥१३७ समस्तभुवनाभारधरणोक्षासनस्थितम् । त्रैलोक्यवनितामौलिनतदेहार्द्धपार्वतिम् ॥१३८ लक्षसूर्यप्रभाभास्वत्त्रैलोक्यकृतपाण्डुरम् । अमृतप्लुतहृष्टाङ्गं दिव्यभोगसमाकुलम् ।।१३६ दिग्दैवतैः समायुक्तं सुरासुरनमस्कृतम् । नित्यं शाश्वतमव्यक्तं व्यापिनं नन्दिनं ध्रुवम् ।।१४० द्विजो ध्यात्वैवमात्मानं सम्यक् रुद्रस्वरूपिणम् । सम्प्रध्वस्तान्तरायः सन् ततो यजनमारभेत् ॥१४१ अनुलिते सुलिप्ते च देशे गोचर्ममात्रके । स्थण्डिलेऽम्बुजमालिख्य मन्त्रैः प्रक्षाल्य तत्पुनः॥१४२ तत्र पूजा प्रकर्तव्या नमश्च शम्भवाय च । मानो महान्तमिति च सिद्धमन्त्रं स्मरेद्बुधः ।।१४३ स्वललाटे पुनायेत्तेजोरूपं शिवं द्विजः । दशाक्षरेण मन्त्रेण दद्यात्पाद्यादिकं पुनः ।।१४४ न्यासमन्त्रैश्च सोङ्कारैर्मानस्तोक इतीत्यपि । शम्भवायेति मन्त्रेण दद्याद्धोदकादिकम् ।।१४५ पुष्प-धूप-प्रदीपादि यथालाभं निवेद्यकम् । दशाक्षरेण तेनैव नमः कुर्यात्पुनर्द्विजः ।।१४६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy