________________
११४ बृहत्पराशरस्मृतिः। [एकादशो
॥ अथ रुद्रपूजाविधिवर्णनम् ॥ अभिधास्येऽथ रुद्राणां शान्तिर्या गृहभेधिनाम् । पञ्चाङ्गाना विधानं तु यत्कृतं हन्ति पातकम् ॥१०७ ब्राह्मगो विधिवत्स्नात्वा सर्वोपद्रवनाशनम् । कुर्याद्विधानं रुद्राणां यजुर्विधाननिर्मितम् ॥१०८ इषेत्वादिषु मन्येषु खं ब्रह्मात्तेषु या क्रिया। दशप्रणयुक्तेषु भूर्भुवःस्वरितोति च ॥१०६ आप छन्दश्च देवत्यं न्यासं च विनियोगतः । पराशरोदितं वक्ष्ये शेषं मुनिविभाषितम् ।। ११० मनो ज्योतिरबोध्यग्निर्मूर्धानं चैव मर्माणि । मानस्तो के इतिह्येतत्प्रथम पञ्चकं स्मरेत् ॥१११ याते रुद्रेति चूडायां शिरोऽस्मिन्महत्यर्णवे । असङ्ख्याताः सहस्राणि ललाटे विन्यसेद्विजः ॥११२ चक्षुषोविन्यसेवे तु त्र्यम्बकं तु यजामहे । मानस्तोक इति ह्यतन्नासिकायां न्यसेबुवः ११३ अवतत्यधनुवये नीलग्रीवाय वा गले। नमस्ते आयुधत्येत स्मरेन्मन्त्रां प्रकोष्टके ॥११४ विन्यसेद्वास्नुमन्त्रोऽयं ये तीर्थानीति हस्तयोः । नमोऽस्तु विकिरेभ्यो वै हृइये मलनाशनम् ।।११५ नाभ्यां विद्वान्न्यसेन्मत्रं नमो हिरण्यबाहवे । गुह्ये मन्त्रस्तु संस्मर्य इमा रुद्राय इत्यपि ॥११६
faii