________________
ऽध्यायः ] अद्भुतशान्तिवर्णनम् ।
६१३ यवपिष्टेन निर्वाप्य विधिवद्वारुगं चरुम् । मन्त्रैर्वरुणदेवत्यैर्जुहुयाद्वरुणाय तम् ॥६८ महावरुणदेवाय जलानां पतये तथा । अन्यैर्वरुणदेवत्यैर्मन्त्रौश्च जुहुयाच्चरम् ॥६६ जुहुयादाहुतीस्तिस्रो मन्त्रीश्च वरुगाय तम् । अन्नस्य तुल्यतां कृत्वा स्वाहान्तैर्वरुणदेवतैः ॥१०० इन्द्रचापेक्षणं रात्रौ शस्त्रज्वलनं तथा । गजा-ऽश्वशफवस्त्रान्तर्जलनं च प्रतिक्षणम् ॥१०१ .. स्थूणाप्ररोहण यत्स्याद्भाण्डस्थानप्ररोहणम् । विद्युन्निर्घातवज्राणां पतनं वा भवेद्यदि ।।१०२ मृहाकुं काकसंसर्ग विपरीतप्रदर्शनम् । शुभाय चरुराग्नेयो निर्वाप्यो विधिवद्विजैः ॥१०३ अग्नये त्वग्निराजाय महावैश्वानराय च । हृदये मम यश्चैतत्तत्सर्वं च वदेद्बुधः ॥१०४ ग्रहशान्तिश्च सर्वत्र शनेः पूजा विशेषतः। दक्षिणा सवृषा गौस्तु वस्त्रयुग्मं द्विजातये ।
प्रदद्यादोषशान्त्यर्थं सर्वोत्पातेषु वै द्विजः॥१०५ एतेषु चान्येष्वपि चाद्भुतेषु जातेषु सावित्रजपं सहस्रम् । होमं विदध्यादपि विष्णुमन्त्रे ब्रह्मेशमन्त्रौरपि वा द्विजोत्तमः ॥१०६
इति-अद्भुतशान्तिवर्णनम् ।