SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ६१२ वृहत्पराशरस्मृतिः। [एकादशोअथाद्भूतानि जायन्ते वर्णानां गृहमेधिनाम् । नानाविधानि तेषां तु प्रशान्त्यै शान्तिरुच्यते ।।८८ यस्याद्भुतानि जायन्ते मृत्यु तस्य वदेविजः । धन-धान्यक्षयं चापि भार्या-पुत्र क्षयं तथा ।।८६ भयं वा जायते शत्रो राज्ञो वा जायते भयम् । शान्तिरतत्र विधातव्या यथोक्ता मुनिपुङ्गवैः ।।६० यदि गोधूमशाखायां यवशाखोपजायते । यवे गोधूमशाखा स्यादेवं सर्वाशनेषु च ॥६१ सर्षपे तिलशाखा चेत्तिलशाखासु सर्षपम् । माषे मुद्स्तु मुद्रोस्यादसावष्टिर्भवेद्यदि ॥६२ अम्भ.प्रपूर्णकुम्भेषु ज्वलदग्निमवेक्षते । उद्वर्तनं च कूपानां मत्तो वा मधुजालकम् ॥६३ विधिवद्वायुलिङ्गश्च निर्वाप्य पयसा चरुम् । महावाताय सततं हृदयं तु प्रशाम्यतु ।।६४ त्रि-पञ्च-सप्त वा हुत्वा सर्वत्र ह्यत्र तुल्यता। स्त्रियो गावो महिष्यो वा सुतौ वत्सौ षण्डको । द्वौ द्वौ यत्र प्रजायेते शास्तित्तत्र विधीयते ॥६५ वृषवद्गोद्वयं नर्देत् वडवाऽश्वं यदारहेत् । अश्वतरी प्रसूते ऽह्नि प्रस्वेदः प्रतिमासु च ॥६६ मृदङ्ग-पटहादीनामकुतोऽपि धनिर्यदि । गृद्ध-काक-कपोताद्या विशेयुर्यदि वा गृहे ॥१७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy