SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ६०६ ज्यायः] ग्रहशान्तिविधिवर्णनम् । वदन्ति मन्त्रत्वार्थवेदिनो द्विजसत्तमाः । आदित्यं गर्भमित्युक्तमग्निं दूतमनेन च ॥५६ एताभ्यां स्थारयेदकं त्र्यम्बकमिति च शङ्करम् । अप्स्वन्तरीति शीतांशु श्रीश्च ते इति पावतीम् ॥६० स्योनापृथिवीति भौमं च यदकंदेति वा गुहम् । इदं विष्णुर्विधि स्थाप्य तद्विष्णोरिति वै हरिम् ।।६१ इन्द्र आसां सुराचार्य माब्रह्मन्निति वेधसम् । इन्द्रं देवो गोसूनुं सजोषत्यमराधिपम् ॥६२ शन्नो देवी रवेः सूनु यमाय त्वा तथा यमम् । आयं गौरोति राहुश्च कालं कार्षीरसोति च ॥६३ ब्रह्मयज्ञेति केतुं च चित्रं चित्रावसोरिति । ब्रूयुरेतानि मंत्राणि मूलमन्त्रस्तथापरे ॥६४ आकृष्णेन च तीव्रांसोरिमन्देवा निशाकरम् । अमिर्मधति भूसूनोरबुध्यध्वं बुधस्य च ॥६५ बृहस्पतेरिति गुरोरन्नात्परिश्रुतो भृगोः।। शन्नो देवी शनैर्गातुः काण्डात्काण्डात्परस्य च ६६ केतुं कृण्वन्नग्निसूनोरिति मन्त्राः प्रकीर्तिताः । वेदमन्त्रविना कश्चिद्विधिर्नास्ति द्विजन्मनाम् । कर्तव्याः स्वस्वमन्त्रौश्व स्पैः स्वैश्च प्रतिदेवतम् ॥६७ सघृता सयवाश्चापि होतव्याश्च द्विजैस्तिलाः । मध्यमानामिकामूललग्नाङ्गुष्ठचतसृभिः ॥६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy