________________
ऽध्यायः] ग्रहशान्तिविधिवर्णनम् । १०७
अनिकुण्डप्रमाणं तु प्रमाणं समिधामपि । सर्वमेव यथोदेशं वक्ष्यामि द्विजसत्तम ॥३७ रक्तः कश्यपजो भानुः शुक्लो ब्रह्मसुतः शशी । रक्तो रौद्रसुतो भौमः पीतः सोमसुतो बुधः ॥३८ पीतो ब्रह्मसुराचार्यः शुक्लो शुक्रो भृगूद्वहः । कृष्णः शनी रवेः पुत्रः कृष्णो राहुः प्रजापतिः ॥३६ कृष्णः केतुः कृशानूत्थः कृष्णा पापास्त्रयोऽप्यमी। कालिङ्गोळ यामुनः सोम आवन्त्यो भौम उच्यते ॥४० मागधो बुध इत्युक्तः सैन्धवस्तु बृहस्पतिः। सैन्धवो दानवाचार्यः सौरिः सौराष्ट्रदेशजः ॥४१ राहुः सिंहलदेशोत्थो मध्यदेशभवोग्निजः। जन्मदेशा इमे प्रोक्ता ग्रहजातकवेत्तृभिः ॥४२ शम्भु रविमुमां चन्द्रं स्कन्दं भौमं हरिं बुधम् । ब्रह्माणं च गुरुं विधात्च्छकं शुक्रं यमं शनिम् ॥४३ कालं राहुं चित्रगुप्त केतुमित्यधिदैवतम्। एतद्विज्ञाय यः कुर्यात्तत्सव सफलं भवेत् ॥४४ अर्कस्त्वर्काय होतव्यः सर्वव्याधिविनाशनः । सुधांशवे च सोमाय पलाशः सार्वकामिकः ॥४५ खदिरश्वार्थलाभाय मङ्गलाय विवेकेभिः । स्वरूपकृदामार्गो होतव्यश्च बुधाय वै ॥४६ प्रभाप्रदस्तथाश्वत्थो होतव्योऽमरमन्त्रिणे । ऊर्जासौभाग्यकृदूर्वा दैत्यामात्याय सद्विजैः ॥४७