SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विनायकशान्तिविधिवर्णनम् । ६०५ वदन्ति वदतां श्रेष्ठा दौर्भाग्यस्योपशान्तये । समुद्रा गिरयो नद्यो मुनयश्व पतिव्रताः ॥१८ दौर्भाग्यं घ्नन्तु मे सर्वे शान्ति यच्छन्तु सर्वदा । पाद-गुल्फोरु-जङ्घा-ऽऽत्र-नितम्बोदर-नाभिषु ॥१६ स्तनोर-बाहु-हस्तान-ग्रीवा-अंसाङ्गसन्धिषु । नासा-ललाट-कर्णभ्र केशान्तेषु च यत् स्थितम् ।।२० तदापो घ्नन्तु दौर्भाग्यं शान्ति यच्छन्तु सर्वदा । स्नातस्य मस्तके दर्भान साज्येन परिगृह्य च ।।२१ जुहुयात्सार्षपं तैलमौदुम्बरस्रवेण तत् । . मितश्च सम्मितश्चैव तथा सालकटङ्कटौ ॥२२ कूष्माण्डो राजपुत्रश्चेत्यन्तेस्वाहासमन्वितैः । नामभिश्च बलिं दद्यान्मन्त्रैर्नमः खवान्वितैः। चतुष्पथं समाश्रित्य शूर्प कृत्वा कुशांस्तथा ॥२३ निधाय तेषु दर्भेषु शुक्राऽशुक्लांश्च तण्डुलान् । ओदनं पललोपेतं पक्कामान्मत्स्यकानपि ।।२४ तथा मांसं च कुल्माषान् तथैव त्रिविधां सुराम् । पूरिकाण्डेरकापूपान्फलानि मूलकं स्रजः ।।२५ गणेशमातुः पार्वत्याः कुर्यादुपस्थितिं पुनः । दूर्वा-सर्पष-पुष्पैश्च पूर्णमर्धाञ्जलिं क्षिपेत् ।।२६ सौभाग्यमम्बिके देहि भगं रूपं यशोऽपि च । स्त्रियं पुत्रांश्च कामांश्च तथा शौयं च देहि मे ॥२७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy