________________
१०४
HANIANRACHARY
-
--
वृहत्पराशरस्मृतिः। [एकादशोराजपुत्रो न राज्याप्त्या वराप्त्या न तु कन्यका । अन्तर्वनी अपत्यात्या आचार्यत्वेन च द्विजः ॥७ अधीयानास्तु विद्याप्त्या कृषिकृत् सस्यसम्पदा । वणिग्वर्तनलाभेन युज्यते निर्धनश्च सन् ॥८ तस्मात्तदुपशान्त्यर्थं समभ्यर्च्य गणेश्वरम् । स्नपनं कारयेत्तस्य विधिवत्पुण्यवासरे ॥६ चतुर्थ्या शुक्लपक्षे तु अयने चोत्तरे शुभे । पुण्यार्थं सर्वसिध्यर्थ कुर्याच्छान्ति विनायकीम् ।।१० स्वासनासीनं संस्थाप्य आरक्तार्षभचर्मणि । सितसर्षपकल्केन साज्येनाच्छादितस्य च ॥११ विलिप्तशिरसस्तस्य गन्धैः सर्वैस्तथोषधै । अष्टौ वा चतुरो वापि स्वस्तिवाच्यान् द्विजान् शुभान् ॥१२ एकवर्ग:श्चतुर्भिश्च पुम्भिः कुम्भैश्च यजलम् । समानीतं क्षिपेत्तत्र वक्ष्यमाणमृदस्तथा ॥१३ अश्वेभस्थान-वल्मीक-हद-सङ्गममृत्तिकाः। रोचना गुग्गुलं गन्धान तस्मिन्नंभसि तान् क्षिपेत् ॥१४ एतद्वै पावनं स्नानं सहस्राक्षमृषिस्मृतम् । तेन त्वां शतधारेण पावमान्यः पुनन्त्वमुम् ॥१५ नवभिः पावमानीभिः कुम्भं तमभिमन्त्रयेत् । शक्रादिदशदिशाला ब्रह्मेश-केशवादयः॥१६ आपस्ते घ्नन्तु दौर्भाग्यं शान्ति ददतु सर्वदा । सुमित्रियान इत्याद्यैर्मन्त्रैरेकेऽभिषेचनम् ।।१७
AarAINWTIRIHITIMIRE