SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] . विनायकशान्तिविधिवर्णनम् । ६०३ उक्तानि सर्वदानानि इष्टापूर्तश्च सत्तमाः । अतः परं प्रवक्ष्यामि गणेशादिकशान्तयः ॥३८६ इति बृहत्पराशरीये धर्मशास्त्रे सुवतप्रोक्तायां स्मृत्यां दानधर्मेषु पूर्त विनिर्णयो नाम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध्यायः। अथविनायकशान्तिविधिवर्णनम् । शान्तीनामथ सर्वासां ग्रहशान्तिः परा स्मृता। आहेभ्योऽपि गगेशस्तु तस्य शान्तिरथोच्यते ।।१ यदि पुकृतकर्माणि भवन्ति फलदानि हि । तदा धर्मोऽ-र्थ-कामास्तु संसिध्येरन्सदा नृणाम् ॥२ तन्नृभिः क्रियमाणानां सर्वेषां कर्मणाममुम् । विघ्नार्थमसृजद्ब्रह्मा शङ्करश्च विनायकम् ॥३ तेनोपहतपुंसां तु कर्म स्यान्निष्फलं कृतम् । स्त्रीणामपि तथा सर्व क्रियमाणं तु निष्फलम् ।।४ जलावगाहनं स्वप्ने क्रव्यादारोहणं तथा । खरोष्ट्र-म्लेच्छसंसर्गो मुण्ड-काषायवाससम् ।।५ पश्यन्त्यात्मनमेवेह सीदन्तं प्रतिवासरम् । यानि कुर्वन्ति कर्माणि तानि स्युः क्लेशदानि च ॥६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy