SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ६०० वृहत्पराशरस्मृतिः। [ दशमोतिस्रश्चैताः पौर्णमास्यो दाने विप्र महाफलाः । व्यतीपातेषु सर्वेषु समक्षेषु द्विजोत्तम ! ॥३५४ प्रहसक्रमकालेषु तीव्ररश्मे विशेषतः । तुला-मेषप्रवेशेषु योगेषु मिथुनस्य च ॥३५५ खेमहाफलं दानं तेभ्योऽपि स्यान्महाफलम् । यदा भानुः प्रविशति मकरं द्विजसत्तमाः ।।३५६ आषाढऽधयुजे चैत्र पौषे चैत्रे तथैव च । द्वादशीप्रभृति प्रोक्तं पुग्यं दिनचतुष्टयम् ॥३५७ मिथुनं च तथा कन्यां धन्विनं मोनमेव च । प्रवेशे भास्करे पुण्यं कथितं द्विजसत्तमाः । षडशीतिमुखं नाम दाने दिनचतुष्टयम् ।।३५८ अच्छि प्रनाले यहत्तं पुत्रे जाते द्विजोत्तमाः। संकारे चैव पुत्रस्य तदक्षय्यं प्रकोर्तितम् ॥३५६ इष्ट्यश्च विविधाः प्रोक्तःस्ताश्च कार्या यथोदिताः । सर्वा अपि हि सद्विरिष्ठधर्ममभोप्सुभिः ॥३६० सत्सद्ममेविद्विजनाकलब्धिसिद्धयर्थमुक्तानि कियन्ति विप्राः । दानानि वक्ष्याम्यय पूर्तधर्म स्यायेन पुंसां विहितेन पुण्यम् ।।३६१ ब्रह्मेश-हरि-सूर्याणां स्कन्देभास्या-ऽश्विनां तथा। मातृगां च ग्रहाणां च गृहाणि कारयेन्नरः॥३६२ इष्टकादशकं वाऽपि यश्चायति विष्णवे । अनेन विधिना कुर्याद्विष्णुलोकमवाप्नुयात् ।।३६३ ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy