SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] दानग्राह्यपुरुषलक्षणवर्णनम्। ईय॑या मन्युना दानं यदानमर्थकारणात् । यो ददाति द्विजातिभ्यो बालभावे तदश्नुते ॥३२२ स्वयं नीत्वा च यद्दानं भक्त्या पात्रे प्रदीयते । अप्रमेयगुणं तद्धि उपतिष्ठति यौवने ॥३२३ यत्सद्विप्राय वृद्धाय भक्त्या च परया वसु । दीयते वेदविदुषे तदुपतिउति वार्द्धके ।।३२४ तस्मात्सर्वात्ववस्थासु सर्वदानानि सत्तमाः । दातव्यानि द्विजातिभ्यः स्वर्गमार्गमभीप्सता ॥३२५ भूमेः प्रतिग्रहं कुर्याद्भूमि वा प्रदक्षिणाम् । करे गृह्य तथा कन्यां दास दास्यौ तथा द्विजः ॥३२६ करंतु हृदि विन्यस्य धर्यो ज्ञेयः प्रतिग्रहः । आरुह्य च गजस्योक्तः कर्णेऽस्य सटासु च ॥३२७ तथा चैकशफानां च सर्वेषामविशेषतः । प्रतिगृह्णीत गां शृङ्गे पुच्छे कृष्णाजिनं तथा ॥३२८ कर्णजाः पशवः सर्वे ग्राह्याः पुच्छे विचक्षणैः । प्रतिप्रहं तथोट्रस्य आरुह्येव तु पादुके ॥३२६ ईषायां तु रथोसे वा छत्रं दण्डे विधारयेत् । द्रुमाणमथ सर्वषां मूले न्यस्तकरो भवेत् ॥३३० आयुधानि समादाय तथाऽऽमुच्य विभूषणम् । धर्मबजस्तथा स्पष्वा प्रविश्य च तथा गृहम् ॥३३१ अवतीर्य तु सर्वाणि जलस्थानानि यानि तु । उपविश्य च शय्यायां स्पर्शयित्वा करेण वा ॥३३२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy