________________
८६६
वृहत्पराशरस्मृतिः। [ दशमोइत्यन्यैमुनिभिः प्रोक्तं घृतगौस्तिलगौः समाः । किञ्च वो बहुनोक्तेन दानस्य तु पुनः पुनः ॥३१२ दीयते यद्दरिद्राय कुटुम्बिने तदक्षयम् । सुकृबुधाय विप्राय भक्त्या परमया वसु ॥३१३ दीयते वेदविदुषे तदुपतिष्ठति यौवने । अथान्यत्सम्प्रवक्ष्यामि दानानि निष्फलानि तु ॥३१४ तथा निष्फलजन्मानि यथावत्तन्निबोधत । वृथा जन्मानि चत्वारि वृथा दानानि षोडश ॥३१५ पृथक् तानि प्रवक्ष्यामि निबोध त्वं द्विजोत्तम!। अपुत्रस्य वृथा. जन्म ये च धर्मबहिष्कृताः ॥३१६ दरिद्रस्य वृथा जन्म व्याधितस्य तथैव च । अपुण्य स्थाने यदत्तं वृथा दानं प्रकीर्तितम् ॥२१७ (पण्यस्थानेषु यद्दत्तं वृथा दानं तदुच्यते ।) आरूढपतिते दानं अन्यायोपार्जितं च यत् । व्यर्थमब्राह्मणे दानं पतिते तस्करेऽपि च ॥३१८ गुरोरप्रीतिजनके कृतघ्ने ग्रामयाजके । ब्रह्मबन्धौ च यद्दानं यदत्तं वृषलीपतौ ॥३१६ वेदविक्रयिणे चेष यस्य चोपपतिगृहे । स्त्रीजिते चैवं यदत्तं व्यालग्राहे तथैव च ॥३२० परिचारके तु यद्दत्तं वृथा दानानि षोडश । तमोवृत्तश्च यो दद्याद्भयाक्रोधात्तथैव च ॥३२॥ विद्वन्न दानं तत्सर्वं भुक्ते गर्भस्थ एव हि ।