SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] दानार्थगोलक्षणवर्णनम् । प्रतिश्रुत्य च यत्किञ्चिद्विजेभ्यो न प्रयच्छति । स वै द्वादशजन्मानि शृगालयोनिमाप्नुयात् ॥३०१ गृष्ट्यादीनथ वक्ष्यामि यथालक्षणलक्षितान् । मानं भूमितिलादीनां यथावत्तन्निबोधत ॥३०२ अजातदन्ता या तु स्याद् दन्तसमन्विता। वर्षादर्वाक् चतुर्थाच्च वत्सिकेति निगद्यते ॥३०३ सुशीला च सुवर्णा च नोरोगा च पयस्विनी । सवत्सा प्रथम सूता गृष्टिौरभिधीयते ॥३०४ अरोगा याऽपरिल्लष्टा प्रसववत्यथ सूतिका । सूता याऽतिपयोयुक्ता सा गौः सामान्यतः स्मृता ||३०५ पूर्वोक्तगुणसंयुक्ता प्रत्यग्रप्रसवा तथा । साथ गौर्वनुरित्युक्ता वसिष्ठजवचो यथा ॥३०६ पञ्चगुञ्जो भवेन्माषः कर्षः षोडशभिश्च तेः। तैश्चतुर्भिः पलं प्रोक्तं दाने मानं च पुण्यदम् ॥३०७ भद्रं नरैकहस्ताभिः प्रसृतीभिश्चतसृभिः । मानकं तैश्चतुर्भिश्च सेतिकेति प्रकीर्तिता ॥३०८ ताभिधतसृभिः प्रस्थश्चतुर्भिराढ कश्च तैः । द्रोणश्चतुर्भितरुक्तो धान्यमानमिति स्मृतम् ॥३०६ तिलप्रसृतिभिर्भाण्डं चतुर्भिर्यत्प्रपूर्यते । तैश्चतुर्भिश्च कर्षों हि तैश्चतुर्भिश्च वै पलम् ॥३१० पलैश्च तैश्चतुभिः स्यात् श्रीपाटी तच्चतुष्टयम् । करक चतसृभित्ताभिश्चतुर्भिरतैर्घटः स्मृतः ॥३११
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy