________________
८६४
वृहत्पराशरस्मृतिः। [दशमोन दानं यशसे दद्यान्न भयान्नोपकारिणे।। न नृत्यगीतशीलेभ्यो हासकेभ्यश्च धार्मिकः ।।२६० पात्रभूतोऽपि यो विप्रः प्रतिगृह्य प्रतिग्रहम् । असत्सु विनियुञ्जीत तस्मै देयं न तद्भवेत् ।।२६१ सञ्चयं कुरुते यस्तु समादाय इतस्ततः । धर्मार्थ नोपयुञ्जीत न तं तस्करमचयेत् ।।२६२ यस्मैदिला द्विजाय स्यादुररीकृत्य तं नरः । दानं च हृदि सञ्चिन्त्य जलमध्ये जलं क्षिपेत् ।।२६३ वदन्ति मुनयो गाथां परोक्षे दानसाफलम् । परोक्षमक्षयं दानं प्रत्यक्षात्कोटिशो भवेत् ।।२६४ पात्रं मनसि सञ्चित्य गुणवन्तमभीप्सितम् । अप्सु ब्राह्मणहस्ते वा भूमौ वापि जलं क्षिपेत् ।।२६५ दानकाले तु सम्प्राप्ते पात्रे चासन्निधौ जलम् । अन्यविप्रकरे दद्यादानं पात्राय दीयते ॥२६६ विष्णु वरुणो यत्र गृह्णत्वाह करोदकम् । तहानं ब्रह्मसम्प्राप्तमक्षय्यमिति विष्णुगीः ।।२६७ लक्ष्मीभ्रष्टाय यहतं दरिद्रायार्थिने द्विजाः। तदक्षयं समुद्दिष्टमिति पाराशरोऽब्रवीत् ॥२६८ राज्यभ्रष्टं च राजानं भूयो राज्ये निवेशयेत् । विष्णुलोकं चिरं भुक्त्वा भूयो भूमिपतिर्भवेत् ।।२६६ प्रतिश्रुत्य द्विजायार्थ यो न यच्छति तं पुनः । न च स्मारयते विप्रस्तुल्यं तदुपपातकम् ॥३००