________________
ऽध्यायः] दानकालत्याज्यवर्णनम् । ८६३
अशौचे सूतके चैव न देयं न प्रतिग्रहः । सतोरपि तयोर्दया सदा चाभयदक्षिणा ॥२७६ रात्रौ दानं न दातव्यं दातव्यमभयं द्विजैः। इमानि त्रीणि देयानि विद्या-कन्याप्रतिग्रहः ।।२८० देवानामतिथीनां च गवामपि च पूजनम् । रात्रावपि हि कर्तव्यमिति पाराशरोऽब्रवीत् ।।२८१ . शुचिः सन्नशुचिर्वाऽपि दद्याद्गृह्णीत चोभयम् । अभयस्य दानकालोऽयं यदा भयमुपस्थितम् ।।२८२ अन्यप्रतिग्रहो विद्वन् ग्राह्यश्व शुचिना द्विज । अशौचे सूतके वाऽपि न तु ग्राह्या भवन्ति ते ॥२८३ अभ्यक्तेन च धर्मज्ञ ! तथा मुक्तशिखेन च । स्नात्वाऽऽचम्य पयः स्पृश्य गृह्णीत प्रयतः शुचिः ॥२८४ द्रव्यस्य नाम गृह्णीयाराता तथा निवेदवेत् । .. तोयं दत्वा तथा दाता दाने विधिरयं स्मृतः ॥२८५ प्रतिग्रहीता सावित्रं सर्व मन्त्रमुदीरयेत् । सायं द्रव्येण तत्सर्वं तद्व्यं च सदैवतम् ।।२८६ समापय्य ततः पश्चात्कामं स्तुत्वा प्रतिग्रहम् । प्रतिग्रही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ।।२८७ मन्दं पठेच्च राजन्यो उपांशु च तथा विशः । मनसा च तथा शूद्रात्कर्तव्यं स्वस्तिवाचनम् ।।२८८ सोङ्कारं ब्राह्मणो ब्रूयान्निरोकारं महीपतिः। उपांशु च तथा वैश्यः स्वस्ति शूद्रे तथैव च ॥२८६