SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विद्यादानवर्णनम् । ८८६ विद्यां भक्त्या प्रयच्छेद्यः परब्रह्मण्यसौ विशेत् । . विद्यार्थिने च विप्राय यो दद्याद्भोजनं द्विजः ।।२३७ पादाभ्यङ्गं तथा स्नानं सोऽपि विद्यांशभाग्भवेत् । यः स्वयं पाठयेद्विप्रान् स्नात्वा भक्त्या च स द्विजः ॥२३८ साक्षात् ब्रह्म समभ्येति भूयो नायाति संसृतौ । भृचं वा यदि वाध च पादं पादाधमेव च ।।२३६ अध्यापयति तस्याऽपि नास्ति शिष्यस्य निष्कृतिः । मन्त्ररूपं च यो दद्यादेकं वाऽपि शुभाक्षरम् । तस्य दानस्य वै शिष्यो निष्कृतिं कर्तुमक्षमः ॥२४० यद्विप्र शिष्यप्रतिपादितेन विद्याप्रदानेन न तुल्यमस्ति । दानं धरित्र्यामविनाशि किंचित्तस्मात्प्रदेयं सततं तदेव ॥२४१ रोगार्तस्यौषधं पथ्यं यो ददाति नरो यदि । अन्यस्यापि च कस्यापि प्राणदः स तु मानवः ॥२४२ किं रत्नभूषणैर्दत्तैर्गोंभिर्वासोभिरेव च। कि वित्तभूषणैर्वस्त्रैरलैर्गोभिस्तुरंगमैः । आदत्तैः प्राणहीनेन प्राणदानमतोऽधिकम् ।।२४३ अन्नं प्राणो जलं प्राणः प्राणश्चौषधमुच्यते । तस्मादौषधदानेन दाता सुरसमो द्विजाः ॥२४४ प्राणदानं च यो दद्यात्सर्वेषामपि देहिनाम् । सयाति परमं स्थानं यत्र देवश्चतुर्भुजः ।।२४५ यो दद्यान्मधुरां वाचमाश्वासनकरीमृताम् । रोग-क्षुधादिनार्तस्य स गोमेधफलं लभेत् ।।२४६.
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy