SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ [दशमो. वृहत्पराशरस्मृतिः। क्लीबा-अन्ध-बधिरादीनां रोगात-कुशरीरिणाम् । तेषां यहीयते दानं दयादानं तदुच्यते ॥२४७ ये यच्छन्ति दयादानं सानुकम्पेन चेतसा । तेऽपि तहानधर्मेण विष्णुलोकमवाप्नुयुः ।।२४८ अथान्यसंप्रवक्ष्यामि तिथि-मासगतं द्विज ! । यत्प्रदाने मुनिश्रेष्ठ ! विशिष्टं फलमिष्यते ।।२४६ मासे मार्गशिरे दानं पूर्णचन्द्रतिथौ नरः । विधिना तत्प्रवक्ष्यामि यत्प्रद.नं महत्फलम् ।।२५० कांस्यस्य पात्रमक्लिष्टं लवणप्रस्थपूरितम् । हिरण्यनाभं वस्त्रेण कुपुम्भेन च छादितम् ।।२५१ स्नातः स्नाताय विप्राय सवस्त्रं प्रतिपाद्य च । सौभाग्य-रूप-लावण्ययुक्तो भवति वै नरः ।।२५२ गौरसर्षपकल्केन पौष्यामुत्सादितो नरः। . स पुनरभिषेक्तव्यः कुम्भेन गव्यसर्पिषा ।।२५३ सर्वगन्धोदकैस्तीथैः फल-रत्नसमन्वितैः । ससुवर्णमुखं कृत्वा प्रदद्यात्तद्विजन्मने ।।२५४ घृतेन स्नापये द्विष्णुं भक्त्या सम्पूजयेद्धरिम् । घृतं च जुहुयाद्वह्नौ घृतं दद्याद्विजातये ।।२५५ छत्रं वासोयुगं दद्यात्सोपवासः समाहितः। कर्मणा तेन धर्मज्ञः पुष्टिमाप्नोत्यनुतमाम् ।।२५६ माध्यां कुर्वन् तिलैः श्राद्धं मुच्यते सर्वपातकैः । शुभं शयनमास्तीर्य फाल्गुन्यां सद्विजातये ।।२५७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy