SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ८८८ वृहत्पराशरस्मृतिः। [दशमोकूष्माण्डं त्रपुषं दत्वा वृन्ताकादि पटोलकान् । शुभानि कन्दमूलानि सुहृष्टः पुत्रवान् भवेत् ।।२२७ बदरा-ऽऽत्र-कपित्थानि खजूर-दाडिमानि च । चिञ्चाश्चामलकं दत्वा पुत्रवानिह जायते ॥२२८ या नारी द्विज ! चैतानि द्विजे भक्त्योपपातयेत् । सर्व तस्या भवेत्तद्धि धनुदानसमन्वितम् । सुपुत्रा सुभगा पुष्टा पार्वतीवेह जायते ।।२२६ योऽथिने तृण-काष्ठानि ब्राह्मणायोपपादयेत् । सर्व दत्तं भवेत्तस्य धेनुदानसमं फलम् ॥२३० भोजनाच्छादने दत्वा दत्वा चोपानही द्विजः । स्वर्गलोकं तु सम्भुज्य पूर्णकामोऽत्र जायते ।।२३१ याः पण्यनार्योऽतिसकामपुंसं कामोपभुक्त्यै निजदत्तदेहाः। गीर्वाणचेतोहररूपवत्यः पौरंदरास्ता गणिका भवन्ति ।।२३२ गृहं वा मठिकं वाऽपि शयना-ऽऽसन-विष्टरम् । दत्वा च कशिपुं विद्वान् विप्रान् यः पाठयेन्नरः ॥२३३ महीदानादिकं व्यास ! विद्यादानं शताधिकम् । विद्यार्थिनां च विप्राणां पादाभ्यङ्गमुपानहौ ।।२३४ यो ददाति द्विजश्रेष्ठ ब्रह्मलोकं स गच्छति । आदावारभ्य वेदांस्तु शास्त्रं वाऽन्यतमं द्विजः ।।२३५ अध्यापयेद्विजान् शिष्यान् विद्यादानं तदुच्यते । उपाध्यायं निवेश्याग्रे तस्य कृत्वा च वेतनम् ।।२३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy