SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ८८७ ऽध्यायः] दानविधिवर्णनम् । घृतं ददाति यो विप्रः सोऽत्यन्तं सुखमश्नुते । भोजनाभ्यञ्जनार्थ वा भवेत्सोऽपि सुखी नरः ॥२१७ सततं तैलदानेन भोजनाभ्यञ्जनाय च।। स्निग्धदेहोऽतितेजस्वी रूपयुक्तः प्रजायते ।।२१८ मृगनाभि च कर्पूरं तगरं चन्दनादिकम् । गन्धद्रव्याणि यो दद्याद्धनी भोगी स जायते ॥२१६ ताम्बूलं पुष्पमालाश्च पुष्पस्याभरणानि च । यो दद्याद्वेषवान्भोगी धनयुक्तः स जायते । सुमतिर्वीर्यवांश्चैव धनयुक्तश्च सर्वदा ॥२२० शिशिरतौं च यो दद्यादनलं सेन्धनं नरः। स समिद्धोदराग्निः सन् प्रज्ञासूर्ययुतो भवेत् ॥२२१ यो दद्यादुर्लभानां च नित्यमेधांसि मानवः । श्रियायुक्तो भवेदत्र सङ्नामे चापराजितः ।।२२२ अथ किं बहुनोक्तेन दानधर्मविवेचने । यद्यदिष्टतमं यस्य तत्तस्मै प्रतिपादयेत् ।।२२३ तिलान् दाश्च नित्यार्थ तृणान्यास्तरणाय च । भुक्त्वा स तु सुखं स्वर्ग जामश्चात्र भवेद्भवि ।।२२४ गुडमिक्षुरसं खण्डं दुग्ध-खजूर-खाद्यकान् । फलानि दत्वा सर्वाणि स्वादूनि मधुराणि च ।।२२५ सर्वाणि फलशाकानि लवणानि तथा द्विज ! । स्थाल्यादिगृहपाकं च दत्वा गोत्राधिको भवेत् ।।२२६.
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy