SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ८८३ ८८३ ऽध्यायः] भूमिदानवर्णनम्। स मूल-शूकतुल्यानि विष्णुलोके सदा वसेत् । षड्भिस्तु सहितान् विप्रान्वंशानुभयतो दश । तानेव द्विगुणान्याहुरिति केचिन्निवर्तनम् ।।१७४ दशहरतैर्भवेद्वंशश्चतुर्भिस्तैस्तु विस्तरः। . दैर्येऽपि दशभिवंशैर्गोचर्म परिकीर्तितम् ।।१७५ अपि गोचर्ममात्रेण भूमिं दद्याद्विजातये । विष्णुलोकमवाप्नोति केचिदाहुर्मनीषिणः ।।१७६ पञ्चहस्तकदण्डानां चत्वारिंशद् दशाहता । पञ्चभिर्गुणिता सा तु निवर्तनमिति स्मृतम् ॥१७७ बालवत्सकधेनूनां सहस्र यत्र तिष्ठति । तद्वै निवर्तनं ज्ञेयं इति केचिद्वदन्ति हि ॥१७८ ताम्रपट्टे पटे वाऽपि लेखयित्वा च शासनम् । ग्रामं विप्राय वा दद्याद्दशसीरक्षितिं पुनः ।।१७६ सीरस्यैकस्य वा दद्यातस्य पुण्यं किमुच्यते । भूम्यंशुकणिकातुल्याः समा विष्णुपुरे वसेत् ॥१८० भूमिदानात्परो धर्मस्त्रैलोक्येऽपि न विद्यते । पादैकमात्रदानेन तस्य विष्णुपुरे स्थितिः ॥१८१ तस्य दानात्परो धर्मस्तद्धृतेः पातकं परम् । तस्मात्तां यत्नतो दद्याद्धरणं च विवर्जयेत् ।।१८२ इहैव भूमिदानस्य प्रत्यक्षं चिह्नमीक्ष्यते । क्षितिदः स्वर्गतो भ्रष्टः क्षितिनाथः पुनर्भवेत् ।।१८३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy