SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [दशमोतस्य हस्तोदकं दद्यात्मीयतां केशवो मम । एवं हस्तिरथं दद्यात्समभ्यर्च्य द्विजातये। निहत्य सर्वपापानि विष्णुलोके महीयते ॥१६४ वसेञ्चतुर्भुजस्तत्र सेव्यमानश्चतुर्भुजैः । अनन्तकालमातिष्ठेच्छङ्ख-चक्र-गदाधरः ।।१६५ पश्यन्तीह रथं ये तु दीयमानं नरा द्विज !। तेऽपि विष्णुपुरं यान्ति वासिष्ठजवचो यथा ॥१६६ एकमपीह यो दद्यादस्तिनं च सभूषणम् । सवस्त्रं हेमरदनं नखैरजतकल्पितैः ।।१६७ मणि-मुक्ताफलैर्युक्तं सुवर्ण-रजतान्वितम् । पूर्वोक्ताय तु विप्राय चतुर्वेदाय वा द्विजाः ॥१६८ यो दद्याद्विधिवत्सोऽपि सदा विष्णुपुरं वसेत् । विधिवद्यश्च गृह्णाति प्सर्वमेव प्रतिग्रहम् ।।१६६ दातृलोकमवाप्नोति पराशरवचो यथा । अलङ्कृत्य तु यः कन्यां ब्राह्मोद्वाहेन यच्छति ।।१७० अन्योद्वाहेन केनापि गजदानशतं लभेत् । गजदानस्य यत्पुण्यं तस्माच्छतगुणं फलम् ॥१७१ कन्यादा विधिवत्सवं प्राप्नुवन्ति ह्यसंशयम् । पुत्रदानं च वाञ्छन्ति केचिद्वत्स मनीषिणः ॥१७२ कन्यादानात्परं ब्रूयुः पुत्रदानं शतोत्तरम् । भूमि सम्यवनी दद्यात यस्तु विप्राय मानवः ।।१७३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy