SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [दशमोभुनक्ति च पुनर्भोगान् यथा दिवि तथा भुवि । गजैरश्वैनरैर्युक्तो हेम-रत्नविभूषितः॥१८४ वरस्त्रीगणसंसेव्यः स्तूयमानः स्वबन्धुभिः । छत्रालङ्कारसंयुक्तो गीतवाद्योत्सवादिभिः ।।१८५ इत्यादि भूमिदानस्य चिह्न ते वत्स ! कीर्तितम् । वित्तेनाऽपि हि यः क्रीत्वा भूमिं विप्राय यच्छति ॥१८६ यावत्तिष्ठति सा भूमिस्तावत्स्वर्गे महीयते । गृहभूमिं च यो दद्याद्दद्यादाश्रममात्रकम् ॥१८७ गृहोपकरणं दत्वा गृहदानफलं लभेत् । हस्तमात्रां च यो दद्याद्भूमिं विप्राय मानवः ॥१८८ किष्कुमात्रां च यो दद्याद्भूमि वेदविदे नरः। तस्यापि हि महापुण्यं दद्यादंगुलमात्रकम् ।।१८६ नैतस्मात्परमं दानं किंचिदस्ति धरातले । पुण्यं फलं प्रवक्ष्यामि विशेषेण तु तच्छृणु ॥१६० यत्र हैमानि सनानि मणिभिभूषितानि च । प्राकारा पत्र सौवर्णाश्चताराः सतोरणाः ॥१६१ दिव्याश्चाप्सरसो यत्र तासां सङ्ख्या ह्यनेकशः । मुपर्वाणौकसा युक्तौ ग्रीवाभरणभूपितौ ॥१६२ दैव कामदेवोऽपि भवेत्कामातुरः क्षणात् । सुकेशा सुललाटाच बालचन्द्रोपमभ्रवः ।।१६३ मुनामा-कर्ण-गण्डाश्च शुभोष्ठाधरपल्लवाः । मुग्रीवा भुजपाल्यग्राः पीनोत्तङ्गस्तनास्तथा ।१६४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy