SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ वृहत्सराशरस्मृतिः। [दशमोएता मयोक्तास्ता वत्स ! सर्वा गृष्ट्यादिका विस्तरतोत्र गावः । इक्ष्वाकुभूभृप्रभृतिक्षितीशा जग्मुर्दिवं या विधिवञ्च दत्वा ॥१२१ कृष्णाजिनस्य दानस्य प्रवक्ष्यामि शुभं विधिम् । प्रमाणं च विधिर्यस्य यस्मै विप्राय दीयते ॥१२२ वैशाख्यां पूर्णिमायां च कार्तिक्यामथ वापि च । उभयोस्तत्प्रदातव्यं रवि-सोमनहेऽपि च ॥१२३ अक्लिष्टमच्छिद्रमलोमकं च सवाणरंध्र सशर्फ सशेफम् । साण्डप्रदेशं सविषाणवक्त्रं शस्तं प्रदाने सितकृष्णचर्म ॥१२४ एवमेतद्विधं चर्म गृहीत्वा द्विज पावनम् । कल्पये नुवत्तञ्च हेमशृंगादिकं तथा ॥१२५ शृङ्ग हेममये तस्य शफाश्च रजतस्य च । मुक्ताफलैश्च लागृलं कुर्यात् शाठ्य विवर्जयेत् ॥१२६ अनुलिप्ते महोपृष्ठे प्रसृते कुतपंऽशुके । तत्र प्रसारयेन्मार्ग तिलैस्तदपि पूरयेत् ॥१२७ वदन्ति तद्विदः सर्वे चतुर्दोगैस्तु पूरयेत् । पुंसो नाभिप्रमाणं तु अपरे कवयो विदुः ॥१२८ नाभिमात्रं वदन्त्यन्ये राशिं कुर्यादिति द्विजः । तिलैश्च पूरयेत् पश्चादजिनं च समन्ततः ॥१२६ हेमनाभं च तं कुर्यात् हेम्ना कर्पण त द्विजः । शक्त्या वापि प्रकर्तव्यं मनःशुद्धिर्यथा भवेत् १३० सौवणं क्षीरपूर्ण तु पात्रं प्राच्यां निधापयेत् । राजतं दधिपूर्ण:तु तथा दक्षिणतो द्विजः ।।१३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy