SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [दशमोये नरास्तेन वै यान्ति विष्णुलोकमसंशयम् । हेमा-ऽऽज्याम्भ-तिलविद्वन् धेनुर्यद्यपि कल्पिता । तथापि ते च भक्ष्याः स्युर्धर्मशास्त्रमताहताः ॥१०१ भक्षणीयं च यद्वस्तु धेन्वंगेषु प्रकल्पितम् । तस्यादृश्यं तदभ्येति वेदमन्त्रैः प्रतिष्ठितम् ॥१०२ पुनः संवृतमन्त्रेषु तदाकुंचनमुद्रया। कृते विसर्जने तेषां वस्तुरूपं पुनर्भवेत् ॥१०३ अथान्यत्संवक्ष्यामि दानामा मुत्तमं परम् । यहत्वा मानवो याति सायुज्यं परवेधसः ॥१०४ धेनुर्देया सुवर्णस्य कारयित्वा द्विजातये । यां दत्वा प्राङ् महीपाला ब्रह्मणः सदनं गताः ।।१०५ सा चतुर्भिस्त्रीभिर्वापि शुद्धवर्णपलैर्द्विजः । पलाभ्यामपि च द्वाभ्यां पलेनैकेन वा पुनः॥१०६ हीनं तु नैव कर्तव्यं सत्यां सम्पदि सद्विजाः । हीनं तु कुर्वतो दानं दातुस्तन्निष्फलं भवेत् ॥१०७ चतुर्था शेन धेन्वास्तु हैमं वत्सं प्रकल्पयेत् । सर्वरत्नैरलङ्कुर्यात् वक्ष्यमाणक्रमेण तु ॥१०८ राजतं वत्सकं कुर्याद्व्युरन्ये च तद्विदः । अलङ्काराश्च सर्वेऽपि गोवद्रत्नैः प्रकल्पयेत् ॥१०६ सकाशाद्वासुदेवस्य यां शुश्राव युधिष्ठिरः । दत्वा प्राप्तो हरेलोकं सा मयेयमुदीरिता ॥११०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy