SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सर्वदान विधिवर्णनम् । चतुभिः संवृतैः पात्रस्तिलपूर्णश्चतुर्दिशम् । स्थगितं दधिपात्रेण घृत-क्षौद्रवता मुखे ॥६१ उपोषितः समभ्यर्च्य वासुदेवं सुरेश्वरम्। पुष्प-धूपोपहारैश्च यथाविभवसंभवम् ॥६२ तस्मिन् कुम्भे लिखेधेनु सवत्सां यक्षकर्दमैः । प्रतिष्ठां तत्र कुर्वीत मौर्वेदचतुष्टयः ॥६३ सङ्कल्प्य जलधेनु च समभ्यर्च्य जनार्दनम् । पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ॥६४ अत्रोचुरपरे केचित्पूजयेत् घृतवत्सकम् । पञ्चांशेन तु कुम्भस्य चतुर्थाशेन चापरे । एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम् ॥६५ सितवस्त्रवरः शान्तो वीतरागो विमत्सरः। दद्याद्विप्राय तां विप्रः प्रीतये जलशायिनः ॥६६ जलशायी जगज्ज्योतिः प्रीयतां केशवो मम । इति चोबार्य विप्रेन्द्रो विप्राय प्रतिपादयेत् ॥६७ अपक्काशनिना स्थेयमहोरात्रमतः परम् । अनेन विधिना दत्वा जलधेनु द्विजोत्तमाः॥६८ सर्वाहादमवाप्नोति यद्यत् ध्यायति मानवः । शरीरारोग्य-दीर्घायुः प्रशस्यः सर्वकामुकः ॥६६ नृणां भवति दत्तायां जलधेन्वा न संशयः। इमामपि प्रशंसन्ति जलधेनु द्विजोत्तम ! ॥१००
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy