________________
८७४ वृहत्पराशरस्मृतिः। [दशमोवत्सस्य कुर्यादिति भूषणानि प्रोक्तानि सर्वाण्यपि यानि धेनोः । अङ्गानि सर्वाणि च तद्वदस्य छत्रं सबस्त्रं च तथैव विप्राः ॥८० गृहाण चैनां मम पापहृत्त्यै दुस्तारसंसारपयोधिपोत । संसारतारो भव भूमिदेव ! स्वर्ग प्रदेह्मक्षयमङ्ग विद्वन् ॥८१ विष्णुः सुरेशो घृतरश्मिरस्याः प्रीतोऽस्तु दानेन वरं ददातु । व्याहृत्य चैतन्नि जहस्ततोयं दत्वा क्षमस्वेति च वाग्विधेया ॥८२ दात्रा द्विजेनात्र तु पूर्वमुक्तं संप्राश्य सर्पितमात्मशुध्यै । कार्य प्रमुकोऽखिलकिल्विषैस्तु प्राप्नोति क मान् घृत-दुग्धमिश्रान् ॥ - घृत-क्षीरवहानद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु विप्रेन्द्र स पुण्येषूपजायते ॥८४ पितुरूवं तु ये सप्त पुरुषास्तस्य येऽप्ययः । तेषु तान् द्विजलोकेषु स नयेद्गतकिल्बिषः ॥८५ सकामानां प्रियं गृष्टिः कथिता तव सत्तम ।। विष्णुलोके नरा यान्ति सकामा घृतधेनुदाः ।८६ जलधेनु प्रवक्ष्यामि प्रीयते दत्तया यया । देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥८७ जलकुम्भं द्विजश्रेष्ठ सुवर्णरजतस्थितम् । रत्नगर्भमशेषैस्तु प्राम्यैर्धान्यैः समन्वितम् ॥८८ सितवस्त्रयुगच्छन्नं दूर्वा-पल्लवशोभितम् । कुट-मांसी-मुरोशीर-वालकामलकैर्युतम् ॥८६ प्रियंगुपप्रसंयुक्तं सितयज्ञोपवीतिनम् । सोपानकं च सच्छत्रं दर्भविष्टरसंस्थितम् ॥६०