SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सर्वदानविधिवर्णनम् । प्रतिग्रहसुदीप्ताग्निदग्धविप्रमुखरिताः। न स्फुरन्तीह मन्त्राश्च जप-होमादिकेषु च ॥६६ न दानं दीयते तस्य न तं कर्मणि योजयेत् । निष्फलं तत्कृतं कर्म मृतस्यौषधदानवत् ॥७० अथातः संप्रवक्ष्यामि धृतधेनुमीि द्विजाः । ये न सा विधिना देया तं प्रवक्षाम्यशेषतः ॥७१ वदामि धेनुं घृतपूरकल्प्यां विधिं च वस्तूनि च यैः प्रकल्प्या। तस्याः प्रदानेन फलं हि यञ्च क्रिया च पात्रं त्वनुपर्व यच्च ॥७२ गोक्षीर-सर्पिर्मधु-खण्ड-दध्ना संस्नाप्य विष्णु शुभवारिणा च । संपूज्य पुष्पैश्च विलेप्य गन्धै(दद्यान्निवेद्य)दत्वा नैवेद्यं च सधूप-दीपम्॥ घृतं च वहि तमेव सोमो घृतं च सूर्यो घृतमेव वारि । प्रदेहि तस्मात् घृतमेव विद्वन् ! घृते प्रदत्ते सकलं प्रदत्तम् ।। घृतेन गव्येन तु पूर्णकुम्भं प्रकल्प्यते गौः करकेन वत्सः । हिरण्यगर्भा मणि-रत्नशोभां कुरुष्व कर्पूरसुचारुनासाम् ।।७५ शृङ्गे च कृष्णागरुदारवे च सौवर्णनेत्रे पटसूत्रसाना । क्षौमं च पुच्छं गुड-दुग्धवक्त्रं जिह्वा च तस्या वरशर्करायाः॥७६ द्राक्षोत्यैश्चैव खजूरैरन्यैः स्वादुफलैरपि । उरम्तस्याः प्रकर्तव्यं पृष्ठं ताम्र च धीमता ॥७७ इक्षुयष्टिमयाः पादाः शफा रौप्यमयास्तथा । धा-यैश्च सप्तभिः पार्श्वे लोमानि सितसर्षपैः ॥७८ कांस्यदोहा प्रकर्तव्या सितवस्त्रावृता तथा । सितच्छत्रसमायुक्ता सितचामरभूषिता ॥७६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy