SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। दशमोइविधां च तां कुर्यात् श्रद्धया परयान्वितः । कास्योपदोहनां दद्यात्केशवः प्रीयतामिति ॥५६ कुर्याच्च गृष्टिवद्विद्वान् इमामप्युत्तरामुखीम् । सम्यगुच्चार्य विधिना दत्वैतेन द्विजोत्तमः ॥६० सर्वपापैर्विनिर्मुक्तः पितरं सपितामहम् । प्रपितामहं तथा पूर्व पुरुषाणां चतुष्टयम् ॥६१ पुत्रपौत्रमधस्ताञ्चत्तथैव च चतुष्टयम् । द्विजेन्द्रास्तारयन्त्येतान् तिलधेनुप्रदा नराः ॥६२ यश्च गृह्णाति विधिवत्पुरुषान् सोऽपि तावत । चतुर्दश तथा ये च ददतश्चानुमोदकाः ॥६३ दीयमानां च पश्यन्ति तिलधेनुं च ये नराः । शृण्वंति ये च तां भक्त्या दीयमानां द्विजोत्तमाः ॥६४ तेऽग्यशेषाघनिर्मुक्ताः प्रयान्ति विष्णुलोकताम् । प्रशान्ताय सुशीलाय तथाऽमत्सरिणे बुधः । तिलधेनु नरो दद्याद्वेदस्नाताय धर्मिणे ॥६५ त्रिरात्रं सतिलाहारस्तिलधेनुं ददाति यः। एकरात्रं पुनर्भक्त्या तिलानत्ति प्रयत्नतः ॥६६ दातुर्विशुद्धपापस्य तस्य पुण्यवतो द्विजाः । चान्द्रायणादप्यधिकं शस्तं तत्तिलभक्षणम् ॥६७ एवं प्रतिग्रहीतापि आदत्ते विधिना द्विजः। स तारयति दातारमात्मानं च न संशयः ॥६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy