________________
ऽध्यायः] सर्वदानविधिवर्णनम्।
तिलधेनु प्रवक्ष्यामि प्रीणनाय हरेरिमाम्। यथा तुष्यति गोविन्दो दत्तया नु गवाऽनघ ॥४६ ब्रह्मादिवर्णहा गोघ्नः पितृ-मातृसुहृद्वधात् । अनिदो गुरुहा चैव तथैव गुरुतल्पगः ॥५० सर्वपापसमायुक्तो युक्तो यश्वोपपातकैः । सः पापैः प्रमुच्येत तिलधेन्वा प्रदत्तया ॥५१ अनुलिप्ते महीपृष्ठे वस्त्राजिनसमावृते । धर्मज्ञाः केचिदिच्छन्ति कुतपे च तिलास्तृते ॥५२ आस्तीर्य त्वाविकं भूमौ तत्र कृष्णाजिनं पुनः । तिलांस्तु प्रक्षिपेत्तत्र कृष्णाढकचतुष्टयम् ॥५३ कुर्यादुत्तरतोऽभ्यणे आढकेन तु वत्सकम् । सर्वरत्नैरलङकुर्यात्सौरभेयी सवत्सकाम् ॥५४ कार्ये हेममये शृङ्गे चरणा राजतास्तथा । मिष्टान्नरसनां कुर्याद्गंधघाणवतीं शुभाम् । आस्यं गुडमयं तस्याः सास्ना सूत्रमयी तथा ॥५५ ताम्रपृष्ठेक्षुपादा च कार्या मुक्ताफलेक्षणा। प्रशस्तपत्रश्रवणा फलदन्तवती तथा ॥५६ शुभ्रस्रङ्मयलाशूला नवनीतस्तनान्विता । नारिङ्ग/जपूरैश्च जम्बीरैर्नारिकेलकैः ॥५७ बदरा-ऽऽम्रकपित्थैश्च मणिमुक्ताफलाचिंताम् । सितवस्त्रयुगच्छन्नां सितच्छत्रसमन्विताम् ।।५८