SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ [दशमो वृहत्पराशरस्मृतिः। स विष्णुप्रीणनाद्याति विष्णुलोकमसंशयम् । आत्मनः पुरुषान् सप्त प्रागधस्ताच्च सप्त च । आत्मानं सप्तजन्मोत्थात्पापाद्विमोचयेन्नरः ॥३६ पदे पदे तु यज्ञस्य गोवत्सस्य च मानवः। फलमाप्नोति विप्रेन्द्राः शुश्रावैतत्पुरा हरेः ।।४० सर्वकामसमृद्धात्मा सर्वलोकेषु पूजितः। नानाप्यघौघहन्ता च यावदि द्राश्चतुर्दश ॥४१ इक्ष्वाकुणा तथा चान्यैर्बहुधा वसुधाधिपः । यैर्या नृभिरियं दत्ता जग्मुस्तेऽपि च विष्टपम् ॥४२ पश्यन्ति दीयमानां ये ये भवन्त्यनुमोदकाः । तेऽपि पापाद्विनिर्मुक्ता विष्णु लोकमवाप्नुयुः ।।४३ पादद्वयं मुखं योऽन्यां प्रसवन्त्याः प्रदृश्यते । तदा च द्विमुखी गौः स्याद्देया यावन सूयते ॥४४ क्षोणीतुल्या तदा सा गौः सर्वैरुक्ता मुनीश्वरैः । सापि प्राग्विधिना देया सकांस्यदोहना द्विजाः ॥४५ एकत्र पृथिवी सर्वा सशैल-वन-कानना। तस्या गौायसी साक्षादेकत्रोभयतोमुखी ॥४६ गोवत्सस्य च लोमानि यावत्संख्यानि सत्तमाः। तावत्सङ्ख्यानि वर्षाणि ध्रुवं ब्रह्मजने वसेत् ॥४७ अरोगामपरिक्लिष्टां धेनु गामथ वापि च । दत्वा स्वर्गमवाप्नोति यावदाभूतसंक्षयम् ॥४८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy