SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अभ्यायः] सर्वदानविधिवर्णनम् । ८६६ तरुणौ सुविषाणौ च घंटाभरणभूषितौ । अदुष्टावेकवर्गौ तु सशिरौ दक्षिणान्वितौ ॥२६ य आहूय द्विजाग्याय दद्याद्भक्त्या तु मानवः । सोऽनडुद्रोमतुल्यानि स्वर्गे बर्षाणि तिष्ठति । अप्सराभिर्वृ तो नित्यं सेव्यमानः सुरासुरैः ॥३० एकोऽपि हि वृषो देयो धूर्वहः शुभलक्षणः । अरोगश्चापरिक्लिष्टो यस्मात्स दशगोसमः ॥३१ एकेन दत्तेन वृषेण यस्माद्भवन्ति दत्ता दश सौरभेयाः। माहेय्यतो यद्धरणीसमानात्तस्माद्वृषात् पूज्यतमोऽस्ति नान्यः ।। गृष्टिदानं प्रवक्ष्यामि यथा देयं द्विजातिभिः । यो विधिदक्षिणायाश्च तथा सर्वं निबोधत ॥३३ एकरात्रोषितः स्नातो गोदाता पञ्चगव्यपः। पञ्चामृतेन संस्नाप्य सम्पूज्य गरुडध्वजम् ॥३४ सवत्सां वस्त्रसंयुक्तां सितयज्ञोपवीतिनीम् । सुविषाणां सुरूपां च सर्वलक्षणसंयुताम् ॥३५ हेमकल्पितभंगां च सुरूप्यचरणाग्रकाम् । पयस्विनी सुशीलां च हिरण्योपरिसंस्थिताम् ॥३६ प्रत्यङ्मुखाय विप्राय गृष्टिं तां च उदङ्मुखीम् । त्वमिमा प्रतिगृह्णीयाः प्रीतोऽस्तु केशवोऽनया । इति दत्वोदकं हस्ते पदान्यष्टौ विसर्जयेत् ॥३७ व्यावर्तेत ततःपश्चात्प्रणम्य शिरसा द्विजम् । अनेन विधिना धेनु यो विप्राय प्रयच्छति ॥३८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy