SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ८६४ वृहत्पराशरस्मृतिः। [नवमोचान्द्रायणे च कृच्छ्रे च त्रिकालं स्नानमाचरेत् । स्नानद्वयं तु कर्तव्यं व्रतेष्वेवापरेषु च ॥२१ शक्तिं ज्ञात्वा शरीरस्य स्नानं कयं तथा व्रतम् । असामर्थ्य तु कायस्य याच्यः पर्षदनुग्रहः ।।२२ ब्रह्मकूचं प्रवक्ष्यासि बूतानामुत्तमं व्रतम् । कृतेन येन मुच्यन्ते प्राणिनः सर्वकिल्विषैः ।।२३ नीलिकायास्तु गोमूत्रं कृष्णायाः शकृदुद्धरेत् । पयस्त्वतिसुवर्णायाः पीतायाश्च तथा दधि ।।२४ कपिलाया घृतं तद्वन्महापातकनाशनम् । अभावे सर्ववर्णायाः कपिलायाः समुद्धरेत् ।।२५ पलानि पञ्च मूत्रस्य अङ्गुठाधं तु गोमयम् । क्षीर सापलं ग्राह्यं तथा दध्नः पलत्रयम् ॥२६ घृतं चाष्टपलं ग्राह्य पलमेकं कुशाम्भसः । मन्त्रैः सर्वाणि चैतानि अभिमन्व्याथ मिश्रयेत् ॥२७ गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति वै क्षीरं दधिक्राव्णस्तथा दधि ।।२८ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । निष्पन्नं पंचगव्यं च पात्रेषु क्रमतः पिवेत् ।।२६ मध्यमेन पलाशस्य तत्पत्रेण पिवे द्विजः । द्वितीयं पद्मपत्रोण ब्रह्मपत्रेण चापरे ॥३० चतुर्थ ताम्रपाण तत्पिबेद्वतकृद्विजः । आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन च ॥३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy