________________
८६३
ऽध्यायः] ब्रतोपवासविधिवर्णनम् ।
उष्ण जलं पयः सर्पिरेकैकं च व्यहं पिवेत् । वायुभक्षस्यहं तिठेत्तप्तकृच्छ्रोऽयमुच्यते ॥१० पलमेकं जलं पीत्वा पलमेकं तथा पयः । पलमेकं तथाज्यस्य मानमेतत्प्रकीर्तितम् ॥११ एतत्तुत्रिगुण तज्ज्ञैर्महासांतपनं स्मृतम् । प्राजापत्यं च कृच्छंच पराकस्त्रिगुणो महान् ।।१२ पद्मोदुम्बर-राजीव-बिल्वपत्रं कुशोदकम् । प्रत्येकं प्रत्यहं प्राश्य पर्णकृच्छ्रः प्रकीर्तितः १३ प्रत्येकं प्रत्यहं गव्यं मूत्रं शकृत्पयो दधि । घृतं कुशोदकं पीत्वा उपवासश्च तत्समः ।।१४ एभिः सप्ताशनरुक्तं दिव्यं सान्तपनं द्विजैः । समाहेन तु कृच्छोऽयं मुनिभिः परिकीर्तितः ॥१५ एतत्तु त्रिगुणं तज्जैर्महासान्तपनं स्मृतम् । प्राजापत्यं च कृच्छू च पराकत्रिगुणो महान् ।।१६ एकभुक्तं च नक्तं च अयाचितविशेषणे । पादकृच्छ्रोऽयमुद्दिदः स्त्रिघ्नं प्राजापतिव्रतम् ॥१७ अयमेवातिकृच्छ्रः स्यात्पाणिपूता(रा)न्नभोजनः । कृच्छातिकृच्छ्रः पयसा दिवसानेवविंशतिः ॥१८ दिनैदशभिः प्रोक्तः पराकः समुपोषितः । एक-द्वयह-व्यहादीनि नक्तं चैव यथाश्रुतम् ॥१६ सम्प्राश्य तिलपिण्याकं तक्रं तोयं कुशोदकम् । पञ्चमे ह्युपवासः स्यात्सौम्यकृच्छोऽयमुच्यते ॥२०