SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [नवमो नवमो ध्यायः। ॥ अथ व्रतोपवास विधिवर्णनम् ॥ व्रतान्यथ प्रवक्षामि बैन्दवादिक्रमेण तु । पापक्षयः कृतयः स्याद्धर्मार्थ तु महोदयः ॥१ चन्द्रवृध्याऽश्नीयात् मासान शुक्ले कृष्णे च ह्रासयेत् । चन्द्रक्षये न भोक्तव्यं यवमध्यं शशिव्रतम् ॥२ विपरीतक्रमणाश्नन्नादावादाय ह्रासयेत् । वर्धयेदन्यपक्षे तु पिपीलीमध्यमैन्दवम् ॥३ अष्टावष्टौ समश्नीयात्सवती प्रतिवासरम् । अष्टप्रासिकमित्येतच्चान्द्रायणमथापरम् ॥४ शतद्वयं तु पिंडानां चत्वारिंशत्समन्वितम् । मासेनैवोपभुजीत चांद्रायणमथापरम् ।।५ चतुरः प्रातरश्नीयात्सायं ग्रासांश्च तावता। शिशुचांद्रायणं तज्ज्ञैः प्रोक्तं पापप्रणोदनम् ॥६ मध्यन्दिने यदश्नीयादष्टौ ग्रासान् दिनप्रति । चान्द्रायणं यतीनां तु वृतज्ञैः परिकीर्तितम् ।।७ शिखण्डसम्मितान् ग्रासान् चन्द्रवतो प्रयोजयेत् । दोषः स्यादन्यथाभावे तस्मादुक्तं समाश्रयेत् ।।८ एकभुक्तैश्च नक्तैश्च तथैवाऽयाचितैरपि । उपवासैश्चतुर्भिश्च कृच्छः षोडशभिर्दिनैः ।।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy