________________
ऽध्यायः] . प्रायश्चित्तवर्णनम् ।
८६१ अवेगमपि यद्भरि सरिद्वारि हदे च यत् ।।। सकदस्पृश्यसंस्पृष्टं न दुष्यति च तत् हृदः ॥३३७ सत्येन पूयते वाणी धर्मः सत्येन वर्धते। तस्मात्सत्यं हि वक्तव्यमात्मशुध्यै द्विजातिभिः ॥३३८ रथ्याकर्दमतोयानि नावः पथि तृणानि च । मारुतार्केण शुध्यन्ति निशि चंद्रक्षमारुतैः ॥३३६ यथासम्भवमुक्तानि प्रायश्चित्तानि सत्तम । उक्तानुक्तानि सर्वाणि ज्ञातव्यानि द्विजातिभिः ॥३४० प्रायश्चित्तं न यत्प्रोक्तं धर्मशास्त्रप्रवक्तृभिः । द्विजैस्तत्र प्रकल्प्यं स्याद्धर्मशास्त्रार्थचिन्तकैः ॥३४१
उक्ता मया निष्कृतयः समासात् संशुद्धये वर्णचतुरयस्य । व्रतानि तेषां विहितानि यानि
वक्ष्याम्यतस्तानि निबोधयेति ॥३४२ इति श्री वृहत्पराशरीये धर्मशाले सुव्रतप्रोक्तायां मनुस्मृत्यां प्रायश्चित्तनिर्णयो नाम अष्टमोऽध्यायः ।
-०००