________________
८६०
वृहत्पराशरस्मृतिः। [अष्टमोपर्युषितं चिरस्यं च भोज्यं स्नेहसमन्वितम् । यव गोधूम माषाणां स्नेह गोरसविक्रयः ॥३२६ आपद्गतो द्विजोऽश्नीयाद्गृह्णीयाद्वा यतस्ततः । न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥३२७ ज्ञापितं शूद्रगेहेऽन्न कटु पक्वं च यद्भवेत् । नीत्वा नद्यन्तिके तद्वै प्रोक्ष्य भुंजन्न दोषभाक् ॥३२८ गायत्र्योङ्कारपूताभिः केचिदद्भिश्च प्रोक्षणम् । मन्यन्ते विष्णुमन्त्रेण कलिधर्म समाश्रिताः ॥३२६ आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः ॥३३० आभीरभाण्डसंस्थानि पयो दधि घृतानि च । तावत्पूतं हि तद्भाण्डं यावत्तत्र तु तिष्ठति ।।३३१ पूतानि सर्वपण्यानि कारुहस्तस्थितानि च । अदत्तानि च भक्ष्याणि यत्नतस्तु द्विजातिभिः ॥३३२ सर्वस्वोपस्करयुक्ता शय्या रक्तांशुकानि च। । पुष्पाणि चैव शुध्यन्ति प्रोक्षितानि च संशयः ॥३३३ अलेपं मृण्मयं भाण्डं भाण्डसंचयमेव च । प्रोक्षणादेव शुध्येत सलेपमग्नितोपनात् ॥३३४ कास्यं च भस्मना शुध्येत् मद्यमांसविवर्जितम् । सुरा मूत्र पुरीषाभ्यां शुध्यते ताप लेपनैः ॥३३५ अलिप्तं मद्य मुत्राद्य स्ताम्रमम्लेन शुध्यति । रजसा स्त्री मनोदुष्टा नद्यश्च वेगसंयुताः॥३३६