________________
वृहत्पराशरस्मृतिः। [अष्टमोअवगूर्य चरेत् कृच्छमतिकृच्छ निपातने । कृच्छातिकृच्छोऽमृक्पाते कृच्छोऽस्यान्तरशोणिते ।।२८४ प्रेतमूढा च दग्ध्वा च शुद्धिः स्नानाद्विजन्मनाम् । उपवासेन चैकेन ब्रह्मकूर्च च पावनम् ।।२८५ प्रेतीभूतं च यः शू ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छन्नीयमानं त्रिरात्रमशुचिर्भवेत् ।।२८६ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुब्धति ॥२८७ . मंगुल्या दन्तकाष्ठं च प्रत्यक्षलवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ।।२८८ कृत्वाऽन्यतममेतेषां शुध्धर्थमात्मनो हितम् । चरेच्छशिव्रतं विप्र इति प्राहुर्मनीषिणः ।।२८६ केचिद्वदन्ति मुनयः कृच्छु सान्तपनं तथा । सदद्धं पादकृच्छ्वा प्राहुरन्ये द्विजोत्तमाः ॥२६० अर्थोच्छिष्टो द्विजोऽज्ञानाद्यात्यघं नहि किंचन । भुत्वाऽनाचम्य वा कुर्याद्विण्मूत्र केह निष्कृतिः ? ॥२६१ नक्तोपवासी बाह्ये तु अन्यत्र द्विगुणं चरेत् । अष्टोत्तरशतं जप्त्वा गायत्र्याः शुद्धिमर्हति ।।२६२ अर्थोच्छिष्टो द्विजः स्पृष्टः शुना वा वृषलेन वा। नक्षत्रदर्शनेऽभीयात्पंचगव्यपुरस्सरम् ।।२६३ अर्थोच्छिष्टाश्च विप्राद्याः श्वोच्छिष्टैः शूद्रसंस्पृशः । उपवासेन शुद्धययुः पंचगव्यस्य पानतः ।।२६४