________________
ऽध्यायः] प्रायश्चित्तवर्णनम् ।
८५५ श्व-जंबुक-वृकाद्यैश्च यदि दष्टो भवेन्नरः । सचैलो जलमाविश्य दत्वाज्यं शुद्धिमर्हति ।।२७३ शुनो घ्राणावलीढस्य नखैर्विलिखितस्य च । यतीनां दर्शनं कार्यमग्निना चोपचूलनम् ।।२७४ अवज्ञां तु गुरोः कृत्वा नक्तं तस्य च भोजनम् । नक्षत्रदर्शनं वन्य इति प्राह पराशरः ॥२७५ कुमारी तु शुना स्पृष्टा जम्बुकेन वृकेण वा । यां दिशं ब्रजते सूर्यस्तां दिशं सा विलोकयेत् ।।२७६ दिवसे तु यदा ग्रामे शुना स्पृटो भवेद्विजः । विप्रं प्रदक्षिणीकृत्य घृतं प्राश्य विशुध्यति ।।२७७ चातुर्वर्ध्यात्तु या नारी कृताभिगमनापि च । प्रक्षाल्य नाभितो ऽधस्तादाचान्तस्तु शुचिर्नरः ।।२७८ विप्रे मैथुनिनि स्नानं केचिद्राज्ञि शिरोविना। नाभिं यावत् विशस्तद्वल्लिंगशौचोऽन्त्यजः शुचिः ।।२७६ अभिगच्छन्सुतार्थं च मृतावृत्तौ स्त्रियं द्विजः । न च कुर्वीत स स्नानं नाभेरधस्तु शोधयेत् ।।२८० . त्वङ्कारं तु गुरोः कृत्वा हुंकारं तु गरीयसः । प्रसाद्येतावनश्नस्यास्नात्वा शुद्धो द्विजोत्तमः ।।२८१ विवादे शास्त्रतो जित्वा जयो यस्य न जायते । श्मशाने जायते तस्य तमोभावेन दुष्कृतम् ।।२८२ ताडयित्वा तृणेनापि स्कन्धे वाऽऽबध्य रज्जुना। कलहादपि निर्जित्य तं प्रसाद्य विशुध्धति ।।२८३