________________
८५४
बृहत्पराशरस्मृतिः । [अष्टमोवदन्त्यपां पवित्रत्वं दिवा सूर्याशु-मारुतैः । चन्दयित्वा पवित्रत्वं मन्दाकरश्मि-वायुभिः । मुनयो धर्मवेत्तारो रात्रौ चंद्रांशु-रश्मिभिः ।।२६३ सकृच्च ब्राह्मणः प्राश्य षडहं पंचगव्यकम् । हेनो दद्याच्च षण्मासान्दत्वा गां च विंशु द्यति ।२६४ पंचाहेन नृपः शुद्धयत्पंचमासान्ददच्च गाः । चतुभिर्दिवसैवेश्यश्चतुर्मासान् गवा सह । २६५ व्यहेण तु चतुर्थस्तु ददन्मासत्रयं च गाम् । सकृत्स्पर्शाद्भवेच्छुद्ध एतदाह पराशरः ।।२६६ रक्तं निःसार्य विप्रस्य कामतोऽकामतोऽपि वा । गायत्र्यष्ठसहस्रेण जप्तेन तु भवेच्छुचिः ।।२६७ यो यस्य हरते भूमिं हेम गामश्वमेव वा । स तं यत्नात्प्रसाद्यापि तदुक्तः शुद्धिमाप्नुयात् ।।२६८ आख्याय भूभृते वापि तेन संशोधितः शुचिः । द्रव्यदण्डाद्विमुक्तिर्वा तपसा वा शुचिर्नरः ॥२६६ निराहाराज्जायते च एतदाहुर्मनीषिण । विनिर्गता यदा शूद्रादुदक्यान्ते व्यवस्थिताः ॥२७० तदा द्विजैस्तु द्रष्टव्य इतिधर्मविदो विदुः । दुःस्वप्नदर्शने चव वान्ते वा क्षुरकर्मणि । मैथुने कटघूमे च सद्यः स्नानं विधीयते ।।२७१ चितां च चितिकाष्ठं च यूपं चण्डालमेव च । स्पृष्टा देवलकं चैव सवासा जलमाविशेत् ।।२७२