________________
ऽध्यायः]
प्रायश्चित्तवर्णनम्। उपाध्याय-नृपा-ऽऽचार्य-शिष्य-योषिद्मी नरः । षण्मासान्कृच्छ्रचरणाच्छुद्धिमाह पराशरः ॥२५२ कृतचाण्डालसंस्पर्शः शकुन्मूत्रकरो द्विजः। षडात्रोपोषणाच्छुद्धथेद्भुक्त्वा ऽऽचान्तो नवद्युभिः ।।२५३ उोच्छिष्टस्य संशुद्धथै केचित्प्राजापतिब्रतम् । वराकं पञ्चगव्यं च केचिदाहुर्मनीषिणः ।।२५४ उच्छिटो ब्राह्मणः स्पृष्ट उच्छिष्टेन द्विजेन तु । आचम्यैव तु शुध्येतां बिष्णुनामानुकीर्तनात् ॥२५५ क्षत्रियेण तु संस्पृष्टो ब्राह्मणो नक्तभोजनात् । वैश्येन चैव संस्पृष्टो नक्ताशी पंचगव्यपः ।।२५६ शूद्रेण तु च संस्पृष्टो एकरात्रोपवासकृत् । उच्छिष्टैः पुनरेतैस्तु प्रोक्तं द्विगुणमर्हति ॥२५७ उच्छिष्टः शूद्रसंस्पृष्टः शुना वापि द्विजोत्तमः । उपोष्य पंचगव्येन शुद्धिः स्यादपरे विदुः ।।२५८ अनुच्छिष्टोऽपि यत्स्पर्शात्नाति वर्णी विशुद्धये । उच्छिष्टः तस्य संस्पर्श चरेत्प्राजापतित्रतम् ।।२५६ रजकाद्यन्त्यजैः स्पृष्टः शुद्धयत्तस्यार्धमाचरन् । उदक्या ब्राह्मणी कृच्छ्रात्प्राजापत्यादथापरे ।।२६० उदक्या ब्राह्मणी स्पृष्टा शुना वा वृषलेन वा। तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुद्धयति ।२६१ उदक्या सूतिका म्लेच्छ संस्पर्शेऽस्तमिते रवौ। दिवाहृताम्बुनानात्वा शुद्धयेद्विप्राग्निसन्निधौ ॥२६२