________________
८५२
बृहत्पराशरस्मृतिः। [अष्टमोशूद्री तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावकाहारो मासाधन विशुध्यति ॥२४२ नृपोऽज्यस्वजनां गत्वा प्राजापत्यं समाचरेत् । वैश्यपत्रीमसौ गत्वा कृत्वा सांतपनं शुचिः ।।२४३ शूद्री तु क्षत्रियो गत्वा गोमूत्रयावकाशनः । दशभिर्दिवसः शुद्धयद्वैश्यःसोऽप्येवमेव हि ॥२४४ उत्तमागमनेनार्याः सर्वे ते स्युः कराग्निना। महापथं च संत्राज्याः खरयानेन योषितः ।।२४५ चाण्डालीमेव भिल्लानामभिगम्य सकृत्स्त्रियम् । चाण्डाल-मेद-भिल्लानामभिगम्य स्त्रियं नरः। शुद्धय पयोव्रतं कुर्यान्मासार्धमघमर्षणम् ।।२४६ पतितां च द्विजाप्रथस्त्री प्राजापत्यं चरेविजः । तैलिकस्य स्त्रियं गत्वा तथा मद्यकृतःस्त्रियम् ।।२४७ अज्ञानाभिगतौ स्त्रीणां पुंसामनुलोमजस्य च । इमां निष्कृतिमिच्छन्ति घृतयोनि च केचन ॥२४८ पितृव्य-भ्रातृजायां च मातृष्वसारमेव च। भगिनीं चैव धात्री च गत्वा कृच्छ समाचरेत् ।।२४६ पण्मासान् केचिदिच्छन्ति संगम्यता विशुद्धये । कच्छू धर्मविदो विप्राः शुद्धिं तत्वार्थवेदिनः ।।२५० गुरुपत्नी द्विजो गत्वा मातृष्वस-दुहितृषु । भिपेच्छुध्यथमात्मानं सुसमिद्धे-हुताशने ॥२५१